Brahmavidya
अथ ब्रह्मविद्योपनिषदुच्यते ॥ प्रसादाद् ब्रह्मणस् तस्य विष्णोर् अद्भुतकर्मणः । रहस्यं ब्रह्मविद्याया ध्रुवाग्निं सम्प्रचक्षते ॥१॥
अथ । ब्रह्मविद्या-उपनिषत् । उच्यते ॥ प्रसादात् । ब्रह्मणः । तस्य । विष्णोः । अद्भुत-कर्मणः । रहस्यम् । ब्रह्मविद्यायाः । ध्रुव-अग्निम् । सम्प्रचक्षते ॥ १ ॥
atha brahmavidyopaniṣad ucyate | prasādād brahmaṇas tasya viṣṇor adbhutakarmaṇaḥ | rahasyaṃ brahmavidyāyā dhruvāgniṃ sampracakṣate ||1||
À présent est proclamée l’Upaniṣad de la Brahmavidyā. Par la grâce de ce Brahman—de Viṣṇu aux actes merveilleux—les sages exposent le secret de la Brahmavidyā comme le « feu immuable » (dhruvāgni).
Now the Brahmavidyā Upaniṣad is declared. By the grace of that Brahman—of Viṣṇu, whose deeds are wondrous—they expound the secret of Brahmavidyā as the ‘fixed fire’ (dhruvāgni).