Amritnada
अनेन विधिना सम्यङ्नित्यमभ्यसतः क्रमात् । स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः ॥२९॥
अनेन । विधिना । सम्यक् । नित्यम् । अभ्यसतः । क्रमात् । स्वयम् । उत्पद्यते । ज्ञानम् । त्रिभिः । मासैः । न । संशयः ॥
anena vidhinā samyaṅ nityam abhyasataḥ kramāt | svayam utpadyate jñānaṃ tribhir māsair na saṃśayaḥ ||29||
Par cette méthode, celui qui s’exerce correctement chaque jour, selon l’ordre requis, voit la connaissance naître d’elle-même en trois mois — sans aucun doute.
By this method, for one who practices correctly and daily, in due sequence, knowledge arises of itself within three months—without doubt.