ये दे॒वा अ॒ग्निने॑त्राः पुर॒ः सद॒स्तेभ्य॒ः स्वाहा॒ । ये दे॒वा य॒मने॑त्रा दक्षि॒णासद॒स्तेभ्य॒ः स्वाहा॒ । ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्य॒ः स्वाहा॒ । ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरा॒सद॒स्तेभ्य॒ः स्वाहा॒ । ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्य॒ः स्वाहा॑
yé devā́ agní-netrāḥ puráḥ-sádaḥ tébhyaḥ svā́hā | yé devā́ yamá-netrā dakṣiṇā-sádaḥ tébhyaḥ svā́hā | yé devā́ viśvádeva-netrāḥ paścā́t-sádaḥ tébhyaḥ svā́hā | yé devā́ mitrā́varuṇa-netrā vā marún-netrā vottárā-sádaḥ tébhyaḥ svā́hā | yé devā́ḥ sóma-netrā uparí-sádo dúvasvantas tébhyaḥ svā́hā
Quels que soient les dieux conduits par Agni, ceux qui sont assis à l’avant — à eux svāhā ! Quels que soient les dieux conduits par Yama, ceux qui sont assis à droite — à eux svāhā ! Quels que soient les dieux conduits par les Viśvedevas, ceux qui sont assis à l’arrière — à eux svāhā ! Quels que soient les dieux conduits par Mitra et Varuṇa — ou conduits par les Maruts — ceux qui sont assis à gauche — à eux svāhā ! Quels que soient les dieux conduits par Soma, ceux qui sont assis au-dessus, dispensateurs de richesse — à eux svāhā !
ये । देवाः । अग्नि-नेत्राः । पुरः-सदः । तेभ्यः । स्वाहा । ये । देवाः । यम-नेत्राः । दक्षिणा-सदः । तेभ्यः । स्वाहा । ये । देवाः । विश्वदेव-नेत्राः । पश्चात्-सदः । तेभ्यः । स्वाहा । ये । देवाः । मित्रा-वरुण-नेत्राः । वा । मरुत्-नेत्राः । वा । उत्तरा-सदः । तेभ्यः । स्वाहा । ये । देवाः । सोम-नेत्राः । उपरि-सदः । दुवस्वन्तः । तेभ्यः । स्वाहा ।