रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु । ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्व॒: पश्य॒ व्यन्तरि॑क्षं॒ यत॑स्व सद॒स्यै॒:
rūpéṇa vo rūpám abhyā́gāṃ tuthó vo viśvávedā ví bhajatu | ṛtásya pathā́ préta candrá-dakṣiṇā ví svàḥ páśya vy antárikṣaṃ yatásva sadasyáiḥ ||
Avec la forme je me suis approché de votre forme; ainsi que l’Omniscient vous en fasse le partage. Avancez sur la voie du ṛta, vous aux dakṣiṇā resplendissantes; contemplez le ciel, parcourez l’espace intermédiaire; mets-toi en mouvement avec les membres du Sadas.
रूपेण । वः । रूपम् । अभि-आ-गाम् । तुथः । वः । विश्व-वेदाः । वि । भजतु । ऋतस्य । पथा । प्र । इत । चन्द्र-दक्षिणाः । वि । स्वः । पश्य । वि । अन्तरिक्षम् । यतस्व । सदस्यैः ।