रा॒या व॒यᳪ स॑स॒वाᳪसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गाव॑: । तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फ़ुरन्तीमे॒ष ते॒ योनि॑रृता॒युभ्यां॑ त्वा ।
rāyā́ vayáṃ sasavā́ṃso madema havyéna devā́ yávasena gā́vaḥ | tā́ṃ dhénuṃ mitrā́varuṇā yuváṃ no viśvā́hā dhattam anapásphurantīm eṣá te yóniḥ ṛtāyúbhyāṃ tvā́ |
Puissions‑nous nous réjouir de richesse, en vainqueurs ; (nous) par l’oblation, ô dieux, et les vaches par le fourrage. Cette vache laitière, ô Mitra et Varuṇa, accordez‑la nous jour après jour, sans défaillance. Voici ton sein ; pour les deux alliés à la Ṛta — toi.
रायाः । वयम् । ससवांसः । मदेम । हव्येन । देवाः । यवसेन । गावः । ताम् । धेनुम् । मित्रा-वरुणा इति । युवम् । नः । विश्वाहा । धत्तम् । अनपस्फुरन्तीम् । एषः । ते । योनिः । ऋता-युभ्याम् । त्वा ।