आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्व॑न॒ ओजि॑ष्ठाय । अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्ति॒पा अ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमुप॑गेषᳪ स्वि॒ते मा॑ धाः
ā́pataye tvā páripataye gṛhṇāmi | tanūnápte śā́kvarāya śákvane ójiṣṭhāya | anādhṛ́ṣṭam asy anādhṛ́ṣyaṃ devā́nām ójo ’nabhíśastyabhiśastipā́ anabhiśastenyám añjásā satyám upagéṣaṃ svité mā dhāḥ
Je te saisis pour le Seigneur de l’atteinte, pour le Seigneur qui garde de toutes parts; pour Tanūnapāt, pour le Śākvara, pour le Śakvan, pour le plus vigoureux. Tu es sans atteinte, inattaquable — la puissance des dieux; gardien contre la malédiction et l’accusation, l’irréprochable. Va droit vers la vérité; ne dépose pas sur moi (la faute), ô Lumineux.
आपतये । त्वा । परि-पतये । गृह्णामि । तनू-नप्त्रे । शाक्वराय । शक्वने । ओजिष्ठाय । अनाधृष्टम् । असि । अनाधृष्यम् । देवानाम् । ओजः । अनभिशस्ति-अभिशस्ति-पाः । अनभिशस्तेन्यम् । अञ्जसा । सत्यम् । उप-गेषम् । स्विते । मा । धाः ।