अग्ने॒ नय॑ सु॒पथा॑ रा॒ये॒ऽस्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ।
agné naya supáthā rā́ye ’smān víśvāni deva vayúnāni vidvā́n | yuyódhí asmáj juhurāṇám éno bhū́yiṣṭhāṃ te náma uktíṃ vidhema ||
Agni, conduis-nous par le bon chemin vers la richesse, ô dieu qui connais toutes les prescriptions. Écarte de nous le péché qui fait dévier; à toi nous offrirons l’hommage le plus abondant de notre parole.
अग्ने । नय । सु-पथा । रा॒ये । अ॒स्मान् । विश्वा॑नि । देव । व॒युना॑नि । वि॒द्वान् । यु॒यो॒धि । अ॒स्मत् । जु॒हु॒रा॒णम् । एनः । भूयि॑ष्ठाम् । ते । नमः । उक्तिम् । विधेम ।