दे॒व॒श्रुतौ॑ दे॒वेष्वा घो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम् । स्वं गो॒ष्ठमा व॑दतं देवी दुर्ये॒ आयु॒र्मा निर्वा॑दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः
devaśrutáu deveṣv ā́ ghoṣataṃ prācī́ prétaṃ adhvaráṃ kalpáyantī ūrdhvám yajñáṃ nayataṃ mā́ jihvaratam | sváṃ goṣṭhám ā́ vadataṃ devī duryé ā́yur mā́ nirvādiṣṭaṃ prajā́ṃ mā́ nirvādiṣṭam átra ramethāṃ várṣman pṛthivyā́ḥ
Ô vous de renommée divine, proclamez-le parmi les dieux ; allez vers l’Orient, mettant en ordre l’Adhvara ; conduisez le sacrifice vers le haut — ne vous détournez pas. Parlez vers votre propre étable, ô déesses, dans le passage difficile ; que ma vie ne soit pas « dite au loin », que ma descendance ne soit pas « dite au loin » : ici puissiez-vous vous réjouir sur le sein de la Terre.
दे॒व॒श्रुतौ॑ । दे॒वेषु॑ । आ । घो॑षतम् । प्राची॑ । प्र । इतम् । अ॒ध्व॒रम् । क॒ल्पय॑न्ती इति । ऊ॒र्ध्वम् । य॒ज्ञम् । न॒यतम् । मा । जि॒ह्व॒रतम् । स्वम् । गो॒ष्ठम् । आ । व॒दतम् । दे॒वी इति । दु॒र्ये॑ । आयुः॑ । मा । नि॒र्वा॑दिष्टम् । प्र॒जाम् । मा । नि॒र्वा॑दिष्टम् । अत्र॑ । र॒मे॒थाम् । वर्ष्म॑न् । पृ॒थि॒व्याः