अ॒यᳪ स॒हस्र॒मृषि॑भि॒ः सह॑स्कृतः समु॒द्र इ॑व पप्रथे । स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥
ayáṃ sahásram ṛ́ṣibhíḥ sáha-skṛtaḥ samudrá iva paprathe | satyáḥ só asya mahimā́ gṛṇé śávo yajñéṣu vipra-rā́jye ||
Celui-ci, fortifié par mille ṛṣi, s’est étendu comme l’océan. Vraie est sa grandeur ; je proclame sa puissance dans les sacrifices, dans la souveraineté royale des prêtres.
अ॒यम् । स॒हस्र॑म् । ऋषि॑भिः । सह॑-स्कृतः । स॒मु॒द्रः । इ॒व॒ । प॒प्र॒थे॒ । स॒त्यः । सः । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शवः॑ । य॒ज्ञेषु॑ । वि॒प्र॒-राज्ये॑ ।