अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरᳪह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौ:
adyā́ devā́ uditā́t sū́ryasya níraṃhasaḥ pipṛtā́ níravadyāt | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ
Aujourd’hui, ô dieux, dès le lever du Soleil, préservez-nous de la détresse, du blâme. Que Mitra et Varuṇa nous grandissent — Aditi, Sindhu, la Terre et aussi le Ciel.
अद्य । देवाः । उदितात् । सूर्यस्य । निरंहसः । पिपृत । निरवद्यात् । तत् । नः । मित्रः । वरुणः । मामहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः