आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञᳪ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त
ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt | iḍopahūtā vasubhiḥ sajoṣā yajñaṃ no devīr amṛteṣu dhatta ||
Avec les Āditya, que Bhāratī favorise notre sacrifice; avec les Rudra, que Sarasvatī nous apporte secours. Iḍā, invoquée, en accord avec les Vasu — ô déesses, placez notre sacrifice parmi les Immortels.
आ॒दि॒त्यैः । नः॒ । भार॑ती । व॒ष्टु । य॒ज्ञम् । सर॑स्वती । स॒ह । रु॒द्रैः । नः॒ । आ॒वी॒त् । इडा॑-उप॑हूता । वसु॑भिः । स॒जोषा॑ । य॒ज्ञम् । नः॒ । दे॒वीः । अ॒मृते॑षु । ध॒त्त ।