दि॒वः पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒: पर्याभृ॑त॒ᳪ सह॑: । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्र॑ᳪ ह॒विषा॒ रथं॑ यज
diváḥ pṛthivyā́ḥ páryoja úd-bhṛtaṃ vánaspátibhyaḥ páryābhṛtaṃ sáhaḥ | apā́m ojmā́naṃ pári góbhir ā́vṛtam índrasya vájraṃ havíṣā ráthaṃ yaja
La puissance enveloppante du ciel et de la terre, mise au jour; la force apportée tout autour depuis les seigneurs de la forêt (vanaspati); la vigueur des eaux, entourée de vaches — sacrifie avec l’oblation (havis) le vajra d’Indra et le char.
दिवः । पृथिव्याः । परि-ओजः । उद्भृतम् । वनस्पतिभ्यः । परि-आभृतम् । सहः । अपाम्-ओज्मानम् । परि । गोभिः । आवृतम् । इन्द्रस्य । वज्रम् । हविषा । रथम् । यज