व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यᳪ सखा॑यं परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यᳪ सम॑ने पा॒रय॑न्ती
vakṣyántīvedā ganīgánti kárṇaṃ priyáṃ sákhāyaṃ pariṣasvajānā́ | yóṣeva śíṅkte vitátādhi dhánvan jyā́ iyáṃ samáne pāráyantī
Comme si elle parlait, elle s’approche de l’oreille, enlaçant son cher compagnon. Telle une jeune fille, elle pare l’arc tendu : cette corde d’arc, dans la rencontre, fait passer (le combattant) au-delà.
वक्ष्यन्ती-इव । एदा । गनीगन्ति । कर्णम् । प्रियम् । सखायम् । परि-स्वस्वजाना । योषा-इव । शिङ्क्ते । वितता । अधि । धन्वन् । ज्या । इयम् । समने । पारयन्ती