नरा॒शᳪस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः । ये सु॒क्रत॑व॒: शुच॑यो धिय॒न्धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या
narāśáṃsasya mahimā́nam eṣām úpa stoṣāma yajátasya yajñáiḥ | yé sukrátavaḥ śúcayo dhiyandhā́ḥ svádanti devā́ ubháyāni havyá
Nous célébrerons la grandeur de Narāśaṃsa parmi eux, par des sacrifices pour l’Adorable. Ces dieux, puissants en l’acte, purs et riches d’intelligence, savourent les deux sortes d’offrandes havya.
नरा॒शंस॑स्य । महि॒मान॑म् । एषा॑म् । उप॑ । स्तोषाम । यज॒तस्य॑ । य॒ज्ञैः । ये । सु॒-क्रत॑वः । शुच॑यः । धिय॒न्धाः । स्वद॑न्ति । दे॒वाः । उ॒भया॑नि । ह॒व्या