सोम॑म॒द्भ्यो व्य॑पिब॒च्छन्द॑सा ह॒ᳪसः शु॑चि॒षत् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
sómam adbhyó vyàpibac chándasā haṃsáḥ śucíṣat | ṛténá satyám indriyáṃ vipānáṃ śukrám ándhasa índrasyendriyám idáṃ páyo’mṛtáṃ mádhu
Soma, des Eaux, le Cygne lumineux le but au-dehors, par la puissance du mètre. Par Ṛta—par la Vérité—(fut obtenue) l’indriya d’Indra : la libation, l’essence lumineuse de la plante. Ceci est la puissance même d’Indra—ce lait, immortel, doux comme le miel.
सोम॑म् । अ॒द्भ्यः । वि॒-अपि॒ब॒त् । छन्द॑सा । ह॒ᳪसः । शु॑चि॒षत् । ऋ॒तेन॑ । स॒त्यम् । इ॒न्द्रि॒यम् । वि॒पान॑म् । शु॒क्रम् । अन्ध॑सः । इन्द्र॑स्य । इ॒न्द्रि॒यम् । इ॒दम् । पयः॑ । अ॒मृत॑म् । मधु॑