पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रू॒पं क॒र्कन्धू॑नि । सोम॑स्य रू॒पं वाजि॑नᳪ सौ॒म्यस्य॑ रू॒पमा॒मिक्षा॑
páyaso rūpáṃ yád yavā́ dadhnó rūpáṃ karkandhū́ni | sómasya rūpáṃ vā́jinaṃ sauḿyasya rūpám āmíkṣā́ ||
Les grains d’orge sont la forme du lait ; les fruits karkandhū (jujubes) sont la forme du caillé. Le vājín est la forme du Soma ; et l’āmikṣā est la forme de ce qui se rapporte au Soma.
पय॑सः । रू॒पम् । यत् । यवा॑ः । द॒ध्नः । रू॒पम् । क॒र्कन्धू॑नि । सोम॑स्य । रू॒पम् । वाजि॑नम् । सौ॒म्यस्य॑ । रू॒पम् । आ॒मिक्षा॑ ।