इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टु॑: प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन् । उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒वो नि षी॑द । उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु
imám ū̱rṇā̱yúṁ váruṇasya nā́bhiṁ tvácaṁ pa̱śūnā́ṁ dvi̱padā́ṁ cátuṣpadām | tváṣṭuḥ pra̱jā́nāṁ pratha̱máṁ ja̱nítram agne mā́ hiṁsīḥ paṟamé vyòman | úṣṭram āra̱ṇyám ánu te diśāmi téna cinvā̱nas ta̱vò ní ṣīda | úṣṭraṁ te śúg gṛcchatu yáṁ dvi̱ṣmás táṁ te śúg gṛcchatu ||
Ne blesse pas cet être laineux — le nombril de Varuṇa, la peau des bêtes, des bipèdes et des quadrupèdes — le premier géniteur des créatures de Tvaṣṭṛ. Ô Agni, ne le blesse pas dans le plus haut ciel. Le chameau sauvage, je te l’assigne ; avec lui, tandis que nous te bâtissons, assieds-toi au-dedans de notre corps. Que le chameau emporte ton mal ; celui que nous haïssons, que vers lui il emporte ton mal.
इ॒मम् । ऊ॒र्णा॒युम् । वरु॑णस्य । नाभि॑म् । त्वच॑म् । प॒शू॒नाम् । द्वि॒पदा॑म् । चतु॑ष्पदाम् । त्वष्टुः॑ । प्र॒जानां॑ । प्र॒थ॒मम् । ज॒नित्र॑म् । अ॒ग्ने॒ । मा । हि॒ᳪसीः । पर॒मे । व्यो॑मन् । उष्ट्र॑म् । आ॒र॒ण्यम् । अनु॑ । ते॒ । दि॒शा॒मि॒ । तेन॑ । चि॒न्वा॒नः । त॒व॒ । नि । षी॑द । उष्ट्र॑म् । ते॒ । शुक् । गृ॒च्छ॒तु॒ । यम् । द्वि॒ष्मः । तम् । ते॒ । शुक् । गृ॒च्छ॒तु॒