अ॒भि॒भूर॑स्ये॒तास्ते॒ पञ्च॒ दिश॑: कल्पन्तां॒ ब्रह्मँ॒स्त्वं ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यप्र॑सवो॒ वरु॑णोऽसि स॒त्यौजा॒ इन्द्रो॑ऽसि॒ विशौ॑जा रु॒द्रो॒ऽसि सु॒शेव॑: । बहु॑कार॒ श्रेय॑स्कर॒ भूय॑स्क॒रेन्द्र॑स्य॒ वज्रो॑ऽसि॒ तेन॑ मे रध्य
abhibhū́r asi | etā́s te páñca díśaḥ kalpantām | bráhman tvaṃ bráhmā ’si | savitā́ ’si satyá-prasavo | váruṇo ’si satyá-ojā́ḥ | índro ’si víśa-ojā́ḥ | rudró ’si su-śévaḥ | bahu-kā́ra śréyas-kara bhū́yas-kara | índrasya vájro ’si | téna me radhya
Tu es le Vainqueur; que ces cinq directions soient ordonnées pour toi. Ô Brahman, tu es Brahman; tu es Savitar à l’impulsion véridique; tu es Varuṇa à la force véridique; tu es Indra, force des peuples; tu es Rudra, le très bienveillant. Accomplis beaucoup; accomplis le bien; accomplis l’accroissement. Tu es le vajra d’Indra; par lui accorde-moi la réussite.
अभि-भूः । असि । एता: । ते । पञ्च । दिशः । कल्पन्ताम् । ब्रह्मन् । त्वम् । ब्रह्मा । असि । सविता । असि । सत्य-प्रसवः । वरुणः । असि । सत्य-ओजाः । इन्द्रः । असि । विश-ओजाः । रुद्रः । असि । सु-शेवः । बहु-कार । श्रेयः-कर । भूयः-कर । इन्द्रस्य । वज्रः । असि । तेन । मे । रध्य