उदी॑ची॒मा रो॑हानु॒ष्टुप् त्वा॑ऽवतु वैरा॒जᳪ सामै॑कवि॒ᳪश स्तोम॑ः श॒रदृ॒तुः फलं॒ द्रवि॑णम्
udīcīmā́ róhānuṣṭúb tvā’vatu vairājáṃ sā́maikaviṃśá stómaḥ śarád-ṛtúḥ phálaṃ dráviṇam
Monte vers la région septentrionale : qu’Anuṣṭubh te protège ; que le Sāman Vairāja soit tien ; que l’Ekaviṃśa soit le Stoma ; que l’automne soit la saison ; que le fruit soit le trésor.
उदी॑ची॒म् । आ । रो॑ह । अ॒नु॒ष्टुप् । त्वा॑ । अ॒व॒तु॒ । वै॒रा॒जम् । साम॑ । ए॒क॒वि॒ᳪशः । स्तोमः॑ । श॒रद् । ऋ॒तुः । फल॑म् । द्रवि॑णम्