Sukta 6.44
पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः । गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः ॥
पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॒ हन्ता॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नः । गन्ता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥
pā́tā sutám índro astu sómaṃ hántā vṛtráṃ vájreṇa mandasānáḥ | gántā yajñáṃ parāvátaś cid ácchā vásur dhīnā́m avitā́ kārú-dhāyāḥ ||
Qu’Indra soit le buveur du Soma pressé ; qu’il soit le tueur de Vṛtra, l’écrasant du Vajra, exultant dans l’ivresse. Qu’il vienne au sacrifice même des lointains les plus lointains — lui, le riche en pensées inspirées, le protecteur de l’œuvre du chantre.
पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । हन्ता॑ । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । गन्ता॑ । य॒ज्ञम् । प॒रा॒ऽवतः॑ । चि॒त् । अच्छ॑ । वसुः॑ । धी॒नाम् । अ॒वि॒ता । का॒रुऽधा॑याः ॥पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । हन्ता । वृत्रम् । वज्रेण । मन्दसानः । गन्ता । यज्ञम् । परावतः । चित् । अच्छ । वसुः । धीनाम् । अविता । कारुधायाः ॥pātā | sutam | indraḥ | astu | somam | hantā | vṛtram | vajreṇa | mandasānaḥ | gantā | yajñam | parāvataḥ | cit | accha | vasuḥ | dhīnām | avitā | kāru-dhāyāḥ