Sukta 6.15
जनिष्वा देववीतये सर्वताता स्वस्तये । आ देवान्वक्ष्यमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥
जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ । आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥
janiṣvā́ deva-vītáye sarvá-tātā svastáye | ā́ devā́n vakṣy amṛ́tāṃ ṛtā-vṛ́dho yajñáṃ devéṣu pispṛśaḥ ||
Naîs pour la venue des dieux, pour l’accomplissement total, pour notre salut. Amène ici les dieux immortels, ô toi qui fais croître le ṛta ; fais que le sacrifice touche les dieux et entre parmi eux.
जनि॑ष्व । दे॒वऽवी॑तये । स॒र्वऽता॑ता । स्व॒स्तये॑ । आ । दे॒वान् । व॒क्षि॒ । अ॒मृता॑न् । ऋ॒त॒ऽवृधः॑ । य॒ज्ञम् । दे॒वेषु॑ । पि॒स्पृ॒शः॒ ॥जनिष्व । देववीतये । सर्वताता । स्वस्तये । आ । देवान् । वक्षि । अमृतान् । ऋतवृधः । यज्ञम् । देवेषु । पिस्पृशः ॥janiṣva | deva-vītaye | sarva-tātā | svastaye | ā | devān | vakṣi | amṛtān | ṛta-vṛdhaḥ | yajñam | deveṣu | pispṛśaḥ