Sukta 5.54
तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄँरभि । इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥
तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि । इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमा॑: ॥
tád vo yā́mi dráviṇaṃ sadyāūtayo yéna svàrṇa tatanā́ma nṝ́ṃr abhí | idáṃ sú me maruto haryatā vácó yásya tárema tárasā śatáṃ himā́ḥ ||
Ce trésor, je le cherche auprès de vous, ô Maruts au secours prompt — par lui, tel une lumière qui s’étend, puissions-nous nous déployer sur les puissances humaines. Accueillez avec faveur cette parole mienne, ô Maruts; par elle, puissions-nous franchir avec force cent hivers d’obscurité.
तत् । वः॒ । या॒मि॒ । द्रवि॑णम् । स॒द्यः॒ऽऊ॒त॒यः॒ । येन॑ । स्वः॑ । न । त॒तना॑म । नॄन् । अ॒भि । इ॒दम् । सु । मे॒ । म॒रु॒तः॒ । ह॒र्य॒त॒ । वचः॑ । यस्य॑ । तरे॑म । श॒तम् । हिमाः॑ ॥तत् । वः । यामि । द्रविणम् । सद्यःऊतयः । येन । स्वः । न । ततनाम । नॄन् । अभि । इदम् । सु । मे । मरुतः । हर्यत । वचः । यस्य । तरेम । शतम् । हिमाः ॥tat | vaḥ | yāmi | draviṇam | sadyaḥ-ūtayaḥ | yena | svaḥ | na | tatanāma | nṝn | abhi | idam | su | me | marutaḥ | haryata | vacaḥ | yasya | tarema | śatam | himāḥ