Sukta 10.68
इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति । बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥
इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति । बृह॒स्पति॒: स हि गोभि॒: सो अश्वै॒: स वी॒रेभि॒: स नृभि॑र्नो॒ वयो॑ धात् ॥
idám akarma námo abhriyā́ya yáḥ pūrvī́r ánv ā́nonavīti | bṛ́haspátiḥ sá hí góbhíḥ só áśvaiḥ sá vī́rebhiḥ sá nṛ́bhir no váyo dhāt ||
Cette œuvre, nous l’avons accomplie — hommage au Puissant, qui suit les antiques voies et les rend toujours nouvelles. Que Bṛhaspati, avec les vaches‑rayons, avec les chevaux‑forces, avec les héros et avec les hommes, établisse pour nous la plénitude de l’être.
इ॒दम् । अ॒क॒र्म॒ । नमः॑ । अ॒भ्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति । बृह॒स्पतिः॑ । सः । हि । गोभिः॑ । सः । अश्वः॑ । सः । वी॒रेभिः॑ । सः । नृऽभिः॑ । नः॒ । वयः॑ । धा॒त् ॥इदम् । अकर्म । नमः । अभ्रियाय । यः । पूर्वीः । अनु । आनोनवीति । बृहस्पतिः । सः । हि । गोभिः । सः । अश्वः । सः । वीरेभिः । सः । नृभिः । नः । वयः । धात् ॥idam | akarma | namaḥ | abhriyāya | yaḥ | pūrvīḥ | anu | ānonavīti | bṛhaspatiḥ | saḥ | hi | gobhiḥ | saḥ | aśvaḥ | saḥ | vīrebhiḥ | saḥ | nṛ-bhiḥ | naḥ | vayaḥ | dhāt