The Killing of Keśī and Vyomāsura; Nārada’s Prophetic Praise of Kṛṣṇa
चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १५ ॥ तस्यानु शङ्खयवनमुराणां नरकस्य च । पारिजातापहरणमिन्द्रस्य च पराजयम् ॥ १६ ॥ उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् । नृगस्य मोक्षणं शापाद्द्वारकायां जगत्पते ॥ १७ ॥ स्यमन्तकस्य च मणेरादानं सह भार्यया । मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामत: ॥ १८ ॥ पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् । दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ १९ ॥ यानि चान्यानि वीर्याणि द्वारकामावसन्भवान् । कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २० ॥
cāṇūraṁ muṣṭikaṁ caiva mallān anyāṁś ca hastinam kaṁsaṁ ca nihataṁ drakṣye paraśvo ’hani te vibho
Dans deux jours seulement, ô Seigneur tout-puissant, je verrai la mort de Cāṇūra, Muṣṭika et d'autres lutteurs, ainsi que celle de l'éléphant Kuvalayāpīḍa et du roi Kaṁsa — tous de Ta main. Ensuite, je Te verrai tuer Kālayavana, Mura, Naraka et le démon conque, voler la fleur pārijāta et vaincre Indra. Je Te verrai épouser de nombreuses filles de rois héroïques, délivrer le roi Nṛga d'une malédiction et prendre le joyau Syamantaka. Tu ramèneras le fils mort d'un brāhmaṇa de la demeure de Yamarāja, Tu tueras Pauṇḍraka et Dantavakra, et Tu mettras fin au roi de Cedi. Je verrai tous ces divertissements héroïques à Dvārakā.