अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ᳪ सर॑स्वतीᳪ सवि॒तारं॑ च वा॒जिन॒ᳪ स्वाहा॑
aryamáṇaṃ bṛ́haspátiṃ índraṃ dā́nāya codaya | vā́caṃ víṣṇuṃ sárasvatīṃ savitā́raṃ ca vā́jinaṃ svā́hā
Impulsa a Aryaman, a Bṛhaspati y a Indra hacia el dar; (impulsa) la Palabra, a Viṣṇu, a Sarasvatī y a Savitṛ, y al Vājin, vencedor del premio — Svāhā.
अर्यमणम् । बृहस्पतिम् । इन्द्रम् । दानाय । चोदय । वाचम् । विष्णुम् । सरस्वतीम् । सवितारम् । च । वाजिनम् । स्वाहा ।