वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोम॒ᳪ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यᳪ रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ता॒: स्वाहा॑
vā́jasyémaṃ prasaváḥ suṣuvé’gré sómaṃ rā́jānam óṣadhīṣv apsú | tā́ asmábhyaṃ mádhumatīr bhavantu vayáṃ rāṣṭré jāgṛyāma puróhitāḥ svā́hā
Este impulso de fuerza ha exprimido, al comienzo, al rey Soma en las plantas, en las aguas. Que ellas sean para nosotros melíferas; que nosotros, como guardianes puestos al frente, vigilemos en el reino — Svāhā.
वाजस्य । इमम् । प्रसवः । सुषुवे । अग्रे । सोमम् । राजानम् । ओषधीषु । अप्सु । ताः । अस्मभ्यम् । मधुमतीः । भवन्तु । वयम् । राष्ट्रे । जागृयाम । पुरोहिताः । स्वाहा ।