ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वाना॑ᳪ स॒मित् । त्वᳪ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थ॒ᳪ स्वाहा॑ जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑
jyóti̍r asi vi̱śvárūpaṃ víśveṣāṃ devā́nāṃ samít | tváṃ soma tanū̱kṛ́dbhyo dvéṣobhyo ’nyá̱kṛtebhya uru yantā́si várūthaṃ svā́hā | juṣā̱ṇó aptu̱rā́jyasya vetu svā́hā
Tú eres la Luz, de forma universal, la leña de encendido (samit) de todos los dioses. Tú, oh Soma, eres un amplio guardián y un amparo contra los destructores del cuerpo, contra los odios, contra los obradores extraños. Svāhā. Aceptando con benevolencia, que alcance la soberanía de Aptu; Svāhā.
ज्योतिः॑ असि । वि॒श्व-रू॑पम् । विश्वे॑षाम् । दे॒वाना॑म् । स॒मित् । त्वम् । सोम । तनू॒-कृद्भ्यः॑ । द्वेषो॑भ्यः । अ॒न्य-कृ॑तेभ्यः । उ॒रु । य॒न्ता असि । वरू॑थम् । स्वाहा॑ । जुषा॒णः । अ॒प्तु-राज्य॑स्य । वेतु । स्वाहा॑ ।