द्युभि॑र॒क्तुभि॒ः परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥
dyúbhir aktúbhiḥ pári pātam asmān áriṣṭebhir aśvinā sáubhagebhiḥ | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī utá dyáuḥ ||
Con días y noches rodeadnos y guardadnos, oh Aśvins, con protecciones intactas y con prosperidades. Que Mitra y Varuṇa nos engrandezcan; y también Aditi, y Sindhu, la Tierra y asimismo el Cielo.
द्युभिः॑ । अ॒क्तुभिः॑ । परि॑ । पातम् । अ॒स्मान् । अरि॑ष्टेभिः । अ॒श्वि॒ना॒ । सौभ॑गेभिः । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥