ग्री॒ष्मेण॑ ऋ॒तुना॑ दे॒वा रु॒द्राः प॑ञ्चद॒शे स्तु॒ताः । बृ॒ह॒ता यश॑सा॒ बल॑ᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः
grī́ṣmeṇa ṛtúnā devā́ rudrā́ḥ pañcadaśé stutā́ḥ | bṛhatā́ yaśásā bálam havír índre váyo dadhúḥ
Con el Verano por estación, los dioses —los Rudra— fueron alabados en el stoma de quince; con el canto Bṛhat, con gloria, con fuerza, pusieron en Indra la oblación —el vigor vital.
ग्री॒ष्मेण॑ । ऋ॒तुना॑ । दे॒वाः । रु॒द्राः । प॑ञ्च-द॒शे । स्तु॒ताः । बृ॒ह॒ता । यश॑सा । बल॑म् । ह॒विः । इन्द्रे॑ । वयः॑ । दधुः