मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोत्वरि॑ष्टं य॒ज्ञᳪ समि॒मं द॑धातु । विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ
mánō jūtír juṣatām ā́jyasya bṛ́haspátir yajñám imáṁ tanotv áriṣṭaṁ yajñáṁ sám imáṁ dadhātu | víśve devā́sa ihá mādayantām | oṁ prátiṣṭhā
Que la Mente, fuerza impulsora, se complazca en la mantequilla clarificada; que Bṛhaspati extienda este sacrificio, sin daño; que establezca aquí este sacrificio en el debido orden. Que todos los dioses se regocijen aquí. Oṁ—firmemente establecido.
मनः । जूतिः । जुषताम् । आज्यस्य । बृहस्पतिः । यज्ञम् । इमम् । तनोतु । अरिष्टम् । यज्ञम् । सम् । इमम् । दधातु । विश्वे । देवासः । इह । मादयन्ताम् । ओम् । प्रतिष्ठ(ा) ।