नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪशि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च
námaḥ sikatyā́ya ca pravāhyā́ya ca námaḥ kiṃśilā́ya ca kṣáyaṇāya ca námaḥ kapardíne ca pulástaye ca námaḥ iriṇyā́ya ca prapáthyāya ca
Reverencia al Arenoso y al Arrastrado por la corriente. Reverencia al Pedregoso y al que permanece (o se deshace). Reverencia a Kapardin, el de los cabellos trenzados, y a Pulastya. Reverencia a Aquel que está en el yermo salino y a Aquel que está en el camino real.
नमः । सिकत्याय । च । प्रवाह्याय । च । नमः । किंशिलाय । च । क्षयणाय । च । नमः । कपर्दिने । च । पुलस्तये । च । नमः । इरिण्याय । च । प्रपथ्याय । च