क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्र॑घ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒ऽयं वृ॒त्रं ब॑धेत् । दृ॒बाऽसि॑ रु॒जाऽसि॑ क्षु॒माऽसि॑ । पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त
kṣatrásyólbam asi kṣatrásya jarā́yur asi kṣatrásya yónir asi kṣatrásya nā́bhir asī́ndrasya vā́rtraghnam asi mitrásyāsi váruṇasyāsi tváyā ’yáṃ vr̥tráṃ badhet | dr̥bā́si rujā́si kṣumā́si | pā́tainaṃ prā́ñcaṃ pā́tainaṃ pratyáñcaṃ pā́tainaṃ tiryáñcaṃ dígbhyaḥ pāta
Tú eres la envoltura del dominio (kṣatra); tú eres la placenta del dominio; tú eres el vientre del dominio; tú eres el ombligo del dominio. Tú eres el poder vṛtra-matador de Indra; tú eres el de Mitra; tú eres el de Varuṇa: por ti, que este (hombre) hiera a Vṛtra. Tú eres el triturador; tú eres el quebrantador; tú eres kṣumā. Protégelo por delante, protégelo por detrás, protégelo de lado; de las direcciones, protégelo.
क्षत्रस्य । उल्बम् । असि । क्षत्रस्य । जरायुः । असि । क्षत्रस्य । योनिः । असि । क्षत्रस्य । नाभिः । असि । इन्द्रस्य । वार्त्रघ्नम् । असि । मित्रस्य । असि । वरुणस्य । असि । त्वया । अयम् । वृत्रम् । बधेत् । दृबा । असि । रुजा । असि । क्षुमा । असि । पात । एनम् । प्राञ्चम् । पात । एनम् । प्रत्यञ्चम् । पात । एनम् । तिर्यञ्चम् । दिग्भ्यः । पात ।