ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा । अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च
ṛ́ce tvā rúce tvā bhā́se tvā jyótiṣe tvā | abhūd idáṃ víśvasya bhúvanasya vā́jinam agnér vaiśvānarásya ca |
For the Ṛc I take thee; for splendour I take thee; for radiance I take thee; for light I take thee. This hath become the vigorous power of the whole world’s being—of Agni Vaiśvānara as well.
ऋचे । त्वा । रुचे । त्वा । भासे । त्वा । ज्योतिषे । त्वा । अभूत् । इदम् । विश्वस्य । भुवनस्य । वाजिनम् । अग्नेः । वैश्वानरस्य । च ।