Sukta 9.98
वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः । नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥
व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्व॑: पुरु॒स्पृह॑: । नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥
vayáṃ te asyá vṛtra-han vaso vásvaḥ puru-spṛ́haḥ | ní nediṣṭha-tamā iṣáḥ syā́ma sumnásyā-dhrigo ||
We, desiring your many riches, O Vasu, O slayer of the coverer, would be set down nearest to the currents of impulsion; may we be holders of your grace, unbroken in our bearing.
व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वसो॒ इति॑ । वस्वः॑ । पु॒रु॒ऽस्पृहः॑ । नि । नेदि॑ष्ठऽतमाः । इ॒षः । स्याम॑ । सु॒म्नस्य॑ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ॥वयम् । ते । अस्य । वृत्रहन् । वसो इति । वस्वः । पुरुस्पृहः । नि । नेदिष्ठतमाः । इषः । स्याम । सुम्नस्य । अध्रिगो इत्यध्रिगो ॥vayam | te | asya | vṛtra-han | vaso iti | vasvaḥ | puru-spṛhaḥ | ni | nediṣṭha-tamāḥ | iṣaḥ | syāma | sumnasya | adhrigo ity adhri-go