Sukta 9.97
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥
अध॒ धार॑या॒ मध्वा॑ पृचा॒नस्ति॒रो रोम॑ पवते॒ अद्रि॑दुग्धः । इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥
ádha dhā́rayā mádhvā pṛcānás tiró róma pavate ádri-dugdhaḥ | índur índrasya sakhyáṃ juṣāṇó devó devásya matsaró mádāya ||
Then, mingling with the stream of honeyed delight, he flows over the hairs (the filtering fleece), milked from the pressing-stone. The bright drop, accepting Indra’s friendship, the god who is the rapture of the god, becomes an impelling intoxication for ecstasy.
अध॑ । धार॑या । मध्वा॑ । पृ॒चा॒नः । ति॒रः । रोम॑ । प॒व॒ते॒ । अद्रि॑ऽदुग्धः । इन्दुः॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । दे॒वः । दे॒वस्य॑ । म॒त्स॒रः । मदा॑य ॥अध । धारया । मध्वा । पृचानः । तिरः । रोम । पवते । अद्रिदुग्धः । इन्दुः । इन्द्रस्य । सख्यम् । जुषाणः । देवः । देवस्य । मत्सरः । मदाय ॥adha | dhārayā | madhvā | pṛcānaḥ | tiraḥ | roma | pavate | adri-dugdhaḥ | induḥ | indrasya | sakhyam | juṣāṇaḥ | devaḥ | devasya | matsaraḥ | madāya