Sukta 9.87
उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः । पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत् ॥
उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे॑ण सोम स॒रथं॑ पुना॒नः । पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥
utá smā rāśíṃ pári yāsi gónām índreṇa soma sa-ráthaṃ punānáḥ | pūrvī́r íṣo bṛhatī́r jīradāno | śíkṣā śacīvas táva tā́ upa-stút ||
And indeed thou movest around the heap of the radiant Cows (stores of light), O Soma, purifying, riding in one chariot with Indra. Giver of rich nourishment-force in its ancient plenitudes, O mighty one, make us learn to praise those thy powers rightly.
उ॒त । स्म॒ । रा॒शिम् । परि॑ । या॒सि॒ । गोना॑म् । इन्द्रे॑ण । सो॒म॒ । स॒ऽरथ॑म् । पु॒ना॒नः । पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । जी॒र॒दा॒नो॒ इति॑ जीरऽदानो । शिक्ष॑ । स॒ची॒ऽवः॒ । तव॑ । ताः । उ॒प॒ऽस्तुत् ॥उत । स्म । राशिम् । परि । यासि । गोनाम् । इन्द्रेण । सोम । सरथम् । पुनानः । पूर्वीः । इषः । बृहतीः । जीरदानो इति जीरदानो । शिक्ष । सचीवः । तव । ताः । उपस्तुत् ॥uta | sma | rāśim | pari | yāsi | gonām | indreṇa | soma | sa-ratham | punānaḥ | pūrvīḥ | iṣaḥ | bṛhatīḥ | jīradāno itijīra-dāno | śikṣa | sacī-vaḥ | tava | tāḥ | upa-stut