Sukta 9.87
एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद । दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा ॥
ए॒षा य॑यौ पर॒माद॒न्तरद्रे॒: कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद । दि॒वो न वि॒द्युत्स्त॒नय॑न्त्य॒भ्रैः सोम॑स्य ते पवत इन्द्र॒ धारा॑ ॥
eṣā yayau paramād antar adreḥ | kūcit satīr ūrve gā viveda | divo na vidyút stanáyanty abhráiḥ | somasya te pavata indra dhārā ||
This stream of Soma has gone in from the highest, into the heart of the stone; becoming the seeker, it discovers the Cows (rays of illumination) in the wide cavern. Like the lightning of heaven that thunders amid the clouds, O Indra, thy Soma-current flows in purification.
एषा । य॒यौ॒ । प॒र॒मात् । अ॒न्तः । अद्रेः॑ । कूऽचि॑त् । स॒तीः । ऊ॒र्वे । गाः । वि॒वे॒द॒ । दि॒वः । न । वि॒ऽद्युत् । स्त॒नय॑न्ती । अ॒भ्रैः । सोम॑स्य । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । धारा॑ ॥एषा । ययौ । परमात् । अन्तः । अद्रेः । कूचित् । सतीः । ऊर्वे । गाः । विवेद । दिवः । न । विद्युत् । स्तनयन्ती । अभ्रैः । सोमस्य । ते । पवते । इन्द्र । धारा ॥eṣā | ā | yayau | paramāt | antaḥ | adreḥ | kū-cit | satīḥ | ūrve | gāḥ | viveda | divaḥ | na | vi-dyut | stanayantī | abhraiḥ | somasya | te | pavate | indra | dhārā