Sukta 9.85
ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य । भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः ॥
ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य । भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचि॑: ॥
ūrdhvó gandharvó ádhi nā́ke asthād víśvā rūpā́ prati-cákṣāṇo asya | bhā́nūḥ śukréṇa śóciṣā vy àdyaut prā́rūrucad ródasī mātárā śúciḥ ||
Upright, the Gandharva has taken his station on the summit, beholding all forms of this manifestation. With a bright flame of pure light his radiance has flashed wide; he has made the two Mothers—Heaven and Earth—shine out in cleanness.
ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । विश्वा॑ । रू॒पा । प्र्चति॒ऽचक्षा॑णः । अ॒स्य॒ । भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । वि । अ॒द्यौ॒त् । प्र । अ॒रू॒रु॒च॒त् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ ॥ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । विश्वा । रूपा । प्र्चतिचक्षाणः । अस्य । भानुः । शुक्रेण । शोचिषा । वि । अद्यौत् । प्र । अरूरुचत् । रोदसी इति । मातरा । शुचिः ॥ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt | viśvā | rūpā | prcati-cakṣāṇaḥ | asya | bhānuḥ | śukreṇa | śociṣā | vi | adyaut | pra | arūrucat | rodasī iti | mātarā | śuciḥ