Sukta 9.70
हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व । नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निदः स्पः ॥
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व । ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्प॑: ॥
hitó na sáptiḥ abhí vā́jam arṣéndrasye ndo jaṭháram ā́ pavasva | nā́vā na síndhum áti parṣi vidvā́n śū́ro na yúdhyann áva no nidáḥ spaḥ ||
Like a harnessed steed, rush toward the plenitude of force; O Indu, purify yourself into Indra’s belly. Like a boat cross over the river, knowing the way; like a hero fighting, ward off from us the hostile reproaches.
हि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । न्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ । ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः॑ ॥हितः । न । सप्तिः । अभि । वाजम् । अर्ष । न्द्रस्य । इन्दो इति । जठरम् । आ । पवस्व । नावा । न । सिन्धुम् । अति । पर्षि । विद्वान् । शूरः । न । युध्यन् । अव । नः । निदः । स्परिति स्पः ॥hitaḥ | na | saptiḥ | abhi | vājam | arṣa | ndrasya | indo iti | jaṭharam | ā | pavasva | nāvā | na | sindhum | ati | parṣi | vidvān | śūraḥ | na | yudhyan | ava | naḥ | nidaḥ | sparitispaḥ