Sukta 9.56
अभि त्वा योषणो दश जारं न कन्यानूषत । मृज्यसे सोम सातये ॥
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत । मृ॒ज्यसे॑ सोम सा॒तये॑ ॥
abhí tvā yóṣaṇo dáśa jārám na kányā anūṣata | mṛ́jyase soma sātáye ||
Ten maidens of the delight press toward you as to a lover; you are cleansed, O Soma, for the winning of the true gain.
अ॒भि । त्वा॒ । योष॑णः । दश॑ । जा॒रम् । न । क॒न्या॑ । अ॒नू॒ष॒त॒ । मृ॒ज्यसे॑ । सो॒म॒ । सा॒तये॑ ॥अभि । त्वा । योषणः । दश । जारम् । न । कन्या । अनूषत । मृज्यसे । सोम । सातये ॥abhi | tvā | yoṣaṇaḥ | daśa | jāram | na | kanyā | anūṣata | mṛjyase | soma | sātaye