Sukta 9.55
उत नो गोविदश्ववित्पवस्व सोमान्धसा । मक्षूतमेभिरहभिः ॥
उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा । म॒क्षूत॑मेभि॒रह॑भिः ॥
utá no go-víd aśva-vít páv asva sómā́ndhasā | mákṣū-tamebhir áha-bhiḥ ||
And for us, O Soma, purify thyself as finder of rays and finder of energies; with thy essence flow swiftly with the swiftest days—hasten the growth of light and power in our progress.
उ॒त । नः॒ । गो॒ऽवित् । अ॒श्व॒ऽवित् । पव॑स्व । सो॒म॒ । अन्ध॑सा । म॒क्षुऽत॑मेभिः । अह॑ऽभिः ॥उत । नः । गोवित् । अश्ववित् । पवस्व । सोम । अन्धसा । मक्षुतमेभिः । अहभिः ॥uta | naḥ | go-vit | aśva-vit | pavasva | soma | andhasā | makṣu-tamebhiḥ | aha-bhiḥ