Sukta 9.54
परि णो देववीतये वाजाँ अर्षसि गोमतः । पुनान इन्दविन्द्रयुः ॥
परि॑ णो दे॒ववी॑तये॒ वाजाँ॑ अर्षसि॒ गोम॑तः । पु॒ना॒न इ॑न्दविन्द्र॒युः ॥
pári no deva-vītáye vā́jāṃ arṣasi gó-mataḥ | punānó indav indrā-yúḥ ||
Flow around for us for the gods’ enjoyment—streams of vāja from the luminous herds; purifying Indu, desiring Indra: bring the plenitude of force and the rays of knowledge into our being.
परि॑ । नः॒ । दे॒वऽवी॑तये । वाजा॑न् । अ॒र्ष॒सि॒ । गोऽम॑तः । पु॒ना॒नः । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः ॥परि । नः । देववीतये । वाजान् । अर्षसि । गोमतः । पुनानः । इन्दो इति । इन्द्रयुः ॥pari | naḥ | deva-vītaye | vājān | arṣasi | go-mataḥ | punānaḥ | indo iti | indra-yuḥ