Sukta 9.53
तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । इन्दुमिन्द्राय मत्सरम् ॥
तं हि॑न्वन्ति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् । इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥
táṃ hinvanti madá-cyutaṃ hárim nadī́ṣu vājínam | índum índrāya matsarám ||
They impel him—the tawny one whose ecstasy does not fall away—swift in the rivers; the drop (Indu) that is a rapturous intoxication for Indra, the force of luminous power.
तम् । हि॒न्व॒न्ति॒ । म॒द॒ऽच्युत॑म् । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् । इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥तम् । हिन्वन्ति । मदच्युतम् । हरिम् । नदीषु । वाजिनम् । इन्दुम् । इन्द्राय । मत्सरम् ॥tam | hinvanti | mada-cyutam | harim | nadīṣu | vājinam | indum | indrāya | matsaram