Sukta 9.49
पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । अयक्ष्मा बृहतीरिषः ॥
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ । अ॒य॒क्ष्मा बृ॑ह॒तीरिष॑: ॥
pávasva vṛṣṭím ā́ su no ’pā́m ū́rmiṃ divás pári | ayakṣmā́ bṛhatī́r íṣaḥ ||
Purify thyself and pour upon us the rain— the wave of the waters from beyond heaven—bringing great impulsions of force, free from affliction.
पव॑स्व । वृ॒ष्टिम् । आ । सु । नः॒ । अ॒पाम् । ऊ॒र्मिम् । दि॒वः । परि॑ । अ॒य॒क्ष्माः । बृ॒ह॒तीः । इषः॑ ॥पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि । अयक्ष्माः । बृहतीः । इषः ॥pavasva | vṛṣṭim | ā | su | naḥ | apām | ūrmim | divaḥ | pari | ayakṣmāḥ | bṛhatīḥ | iṣaḥ