Sukta 9.48
तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । चारुं सुकृत्ययेमहे ॥
तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः । चारुं॑ सुकृ॒त्यये॑महे ॥
táṃ tvā nṛmṇā́ni bíbhrataṃ sadhástheṣu mahó diváḥ | cā́ruṃ sukṛtyáyemahe ||
Thee we seek—bearing heroic powers in the common seats of the great heaven—beautiful, for our right-doing and perfected work.
तम् । त्वा॒ । नृ॒म्णानि॑ । विभ्र॑तम् । स॒धऽस्थे॑षु । म॒हः । दि॒वः । चारु॑म् । सु॒ऽकृ॒त्यया॑ । ई॒म॒हे॒ ॥तम् । त्वा । नृम्णानि । विभ्रतम् । सधस्थेषु । महः । दिवः । चारुम् । सुकृत्यया । ईमहे ॥tam | tvā | nṛmṇāni | vibhratam | sadha-stheṣu | mahaḥ | divaḥ | cārum | su-kṛtyayā | īmahe