Sukta 9.4
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । अथा नो वस्यसस्कृधि ॥
त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि । अथा॑ नो॒ वस्य॑सस्कृधि ॥
tvā́ṃ yajñáir avīvṛdhan pávamāna vídharmaṇi | áthā no vásyasas kṛdhi ||
By the sacrifices they have increased you, O purifying Soma, in the ordering of the law of works; then shape us into the better state.
त्वाम् । य॒ज्ञैः । अ॒वी॒वृ॒ध॒न् । पव॑मान । विऽध॑र्मणि । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥त्वाम् । यज्ञैः । अवीवृधन् । पवमान । विधर्मणि । अथ । नः । वस्यसः । कृधि ॥tvām | yajñaiḥ | avīvṛdhan | pavamāna | vi-dharmaṇi | atha | naḥ | vasyasaḥ | kṛdhi