Sukta 9.36
स वह्निः सोम जागृविः पवस्व देववीरति । अभि कोशं मधुश्चुतम् ॥
स वह्नि॑: सोम॒ जागृ॑वि॒: पव॑स्व देव॒वीरति॑ । अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥
sá váhniḥ sóma jā́gṛviḥ páv asva deva-vī́r áti | abhí kóśaṃ madhú-ścutam ||
O Soma, the carrier-flame, the wakeful one—flow in your purification beyond, toward the god-heroic state; press on to the vessel that drips with honeyed delight.
सः । वह्निः॑ । सो॒म॒ । जागृ॑विः । पव॑स्व । दे॒व॒ऽवीः । अति॑ । अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥सः । वह्निः । सोम । जागृविः । पवस्व । देववीः । अति । अभि । कोशम् । मधुश्चुतम् ॥saḥ | vahniḥ | soma | jāgṛviḥ | pavasva | deva-vīḥ | ati | abhi | kośam | madhu-ścutam