Sukta 9.36
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । कार्ष्मन्वाजी न्यक्रमीत् ॥
अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वो॑: सु॒तः । कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥
ásarji rathyó yáthā pavítre camvóḥ sutáḥ | kā́rṣman vājī́ ny àkramīt ||
Released like a chariot-racer, the pressed Soma enters the filter and the two bowls; as a bringer of plenitude of force, he strides down into the working-field of the rite.
अस॑र्जि । रथ्यः॑ । य॒था॒ । प॒वित्रे॑ । च॒म्वोः॑ । सु॒तः । कार्ष्म॑न् । वा॒जी । नि । अ॒क्र॒मी॒त् ॥असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः । कार्ष्मन् । वाजी । नि । अक्रमीत् ॥asarji | rathyaḥ | yathā | pavitre | camvoḥ | sutaḥ | kārṣman | vājī | ni | akramīt