Sukta 9.26
तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् । इन्दविन्द्राय मत्सरम् ॥
तं त्वा॑ हिन्वन्ति वे॒धस॒: पव॑मान गिरा॒वृध॑म् । इन्द॒विन्द्रा॑य मत्स॒रम् ॥
táṃ tvā hinvanti vedhásaḥ pavamāna girā́vṛdham | índav índrā́ya matsarám ||
The wise workers impel thee, O Pavamāna, grown great by the hymns—O Indu—into the rapture that is for Indra.
तम् । त्वा॒ । हि॒न्व॒न्ति॒ । वे॒धसः॑ । पव॑मान । गि॒रा॒ऽवृध॑म् । इन्दो॒ इति॑ । इन्द्रा॑य । म॒त्स॒रम् ॥तम् । त्वा । हिन्वन्ति । वेधसः । पवमान । गिरावृधम् । इन्दो इति । इन्द्राय । मत्सरम् ॥tam | tvā | hinvanti | vedhasaḥ | pavamāna | girāvṛdham | indo iti | indrāya | matsaram