Sukta 9.25
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । मरुद्भ्यो वायवे मदः ॥
पव॑स्व दक्ष॒साध॑नो दे॒वेभ्य॑: पी॒तये॑ हरे । म॒रुद्भ्यो॑ वा॒यवे॒ मद॑: ॥
pávasva dakṣasā́dhano devébhyáḥ pītáye hare | marúdbhyo vāyáve mádaḥ ||
Purify thyself, O Soma, accomplisher of the discerning power; for the Gods to drink, O tawny one. Be thou the ecstasy for the Maruts and for Vāyu—the life-breath in its vast movement.
पव॑स्व । द॒क्ष॒ऽसाध॑नः । दे॒वेभ्यः॑ । पी॒तये॑ । ह॒रे॒ । म॒रुत्ऽभ्यः॑ । वा॒यवे॑ । मदः॑ ॥पवस्व । दक्षसाधनः । देवेभ्यः । पीतये । हरे । मरुत्भ्यः । वायवे । मदः ॥pavasva | dakṣa-sādhanaḥ | devebhyaḥ | pītaye | hare | marut-bhyaḥ | vāyave | madaḥ